लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0


अथावमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी।
सती सती योगविसृष्टदेहा तां जन्मने शैलवधू प्रपेदे॥२१॥

सा भूधराणामधिपेन तस्यां समाधिमत्यामुदपादि भव्या।
सम्यक्प्रयोगादपरिक्षताथां नीताविवोत्साहगुणेन संपत्॥२२॥

प्रसन्नदिक्पांसुविविक्तवातं शङ्खस्वनानन्तरपुष्पवृष्टि।
शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव॥२३॥

तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकासे।
विद्रभूमिर्नवमेघशब्दादुदभिन्नया रत्नशलाकयेव॥२४॥

दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेखा।
पुपोष लावण्यमयान विशेषा*ञ्जयोत्स्नान्तराणीव कलान्तराणि॥२५॥
* विशेषान् अवयवान्।

तां पार्वतीत्याभिजनेन नाम्ना बन्धुप्रियां बन्धुजनो जुहाव।
उमेति मात्रा तपसो निषिद्धा पश्चादुमाख्यां सुमुखी जगाम॥२६॥

महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम्।
अनन्तपुष्पस्य मधोहि चूते द्विरेफमाला सविशेषसङ्गा॥२७॥

प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः।
संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च॥२८॥

मन्दाकिनीसकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च।
रेमे मुहुर्मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये॥२९॥

तां हंसमालाः शरदीव गङ्गां महौषधि नक्तमिवात्मभासः।
स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः॥३०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book